वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: नृमेध आङ्गिरसः छन्द: पुर उष्णिक् स्वर: ऋषभः काण्ड:

त्वा꣡ꣳ शु꣢ष्मिन्पुरुहूत वाज꣣य꣢न्त꣣मु꣡प꣢ ब्रुवे सहस्कृत । स꣡ नो꣢ रास्व सु꣣वी꣡र्य꣢म् ॥११७१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वाꣳ शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत । स नो रास्व सुवीर्यम् ॥११७१॥

मन्त्र उच्चारण
पद पाठ

त्वा꣢म् । शु꣣ष्मिन् । पुरुहूत । पुरु । हूत । वाजय꣡न्त꣢म् । उ꣡प꣢꣯ । ब्रु꣣वे । सहस्कृत । सहः । कृत । सः꣢ । नः꣣ । रास्व । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११७१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1171 | (कौथोम) 4 » 2 » 13 » 3 | (रानायाणीय) 8 » 6 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा से प्रार्थना है।

पदार्थान्वयभाषाः -

हे (शुष्मिन्) बलवान् (पुरुहूत) बहुतों से पुकारे गये, (सहस्कृत) बलप्रदाता जगदीश्वर ! (वाजयन्तं त्वाम्) दूसरों को बल देना चाहनेवाले आपसे, मैं (उपब्रुवे) प्रार्थना करताहूँ। (सः) वह आप (नः) हमें (सुवीर्यम्) उत्कृष्ट वीरता से युक्त सन्तान (रास्व) दीजिए ॥३॥

भावार्थभाषाः -

हम और हमारी सन्तानें बलवान् होकर, शत्रुओं को हराकर, अपना चक्रवर्ती राज्य संस्थापित करके धर्म से प्रजाओं का पालन करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मा प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (शुष्मिन्) बलवन्, (पुरुहूत) बहुभिः आहूत, (सहस्कृत) बलप्रद जगदीश्वर ! (वाजयन्तं त्वाम्) बलं परेषां कामयमानम् त्वाम्, अहम् (उपब्रुवे) प्रार्थये। (सः) असौ त्वम् (नः) अस्मभ्यम् (सुवीर्यम्) सुबलोपेतं सन्तानम् (रास्व) प्रयच्छ ॥३॥

भावार्थभाषाः -

वयमस्माकं सन्तानाश्च बलवन्तो भूत्वा शत्रून् पराजित्य स्वकीयं चक्रवर्तिराज्यं संस्थाप्य धर्मेण प्रजाः पालयेमहि ॥३॥

टिप्पणी: १. ऋ० ८।९८।१२, अथ० २०।१०८।३, उभयत्र ‘सहस्कृत’ इत्यत्र ‘शतक्रतो’।